Śrī Rāma Paṭṭābhiṣekam
Part I — Bharata Returns the Kingdom and the Procession to Ayodhyā
Open in the interactive reader
Verses 1–59
This part contains the first fifty-nine verses. It opens with Bharata's ten verses of renunciation (verses 2–11), in which he asks Rāma to take back the kingdom and compares himself, in a series of similes, to a young colt, a weak dam and a tree that flowers but bears no fruit. Rāma assents (verse 12), and the preparations for the consecration begin: the royal toilet of the brothers and of Sītā, the ministers' arrangements in the city, and the great procession in which Rāma, with Bharata, Śatrughna, Vibhīṣaṇa and the vānaras around him, enters Ayodhyā. After Rāma salutes the queens and gives his own house to Sugrīva, Śatrughna asks for the sacred waters, and the four vānara chiefs and others fly out to bring water from the four oceans and the five hundred rivers (verses 49–59).

Verses in this section
- Verse 1शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
- Verse 2भरत उवाच पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
- Verse 3भरत उवाच धुरमेकाकिना न्यस्तामृषभेण बलीयसा । किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥
- Verse 4भरत उवाच वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्…
- Verse 5भरत उवाच गतिं खर इवाश्वस्य हंसस्येव च वायसः । नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥
- Verse 6भरत उवाच यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । महांश्च सुदुरारोहो महास्कन्धः…
- Verse 7भरत उवाच शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थं यस्य हेतोः स…
- Verse 8भरत उवाच एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । यद्यस्मान्मनुजेन्द्र त्वं…
- Verse 9भरत उवाच जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्…
- Verse 10भरत उवाच तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव…
- Verse 11भरत उवाच यावदावर्तते चक्रं यावती च वसुन्धरा । तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ ११ ॥
- Verse 12भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
- Verse 13ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः । सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥
- Verse 14पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥…
- Verse 15विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
- Verse 16प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥…
- Verse 17प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥
- Verse 18ततो वानरपत्नीनां सर्वासामेव शोभनम् । चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ॥
- Verse 19ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः । योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥
- Verse 20अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम् । आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥
- Verse 21सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥…
- Verse 22वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥
- Verse 23अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये । पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥
- Verse 24अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः । मन्त्रयन्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥
- Verse 25मन्त्रिण ऊचुः सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । कर्तुमर्हथ रामस्य…
- Verse 26इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् । नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६…
- Verse 27हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥
- Verse 28जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे । लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ २८…
- Verse 29श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः । अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥
- Verse 30ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३० ॥
- Verse 31ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१ ॥
- Verse 32नवनागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥
- Verse 33शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरीं…
- Verse 34ददृशुस्ते समायान्तं राघवं सपुरस्सरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥
- Verse 35ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥…
- Verse 36अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः…
- Verse 37स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥
- Verse 38अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥
- Verse 39सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणां च तत्कर्म राक्षसानां च तद्बलम् ।…
- Verse 40श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥
- Verse 41द्युतिमानेतदाख्याय रामो वानरसंवृतः । हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥
- Verse 42ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ॥
- Verse 43ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥
- Verse 44अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् । अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ ॥
- Verse 45पितुर्भवनमासाद्य प्रविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ ॥
- Verse 46राम उवाच यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय…
- Verse 47तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥
- Verse 48ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥…
- Verse 49- उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ ॥ Textual…
- Verse 50सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् । ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्…
- Verse 51सुग्रीव उवाच यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत…
- Verse 52एवमुक्ता महात्मानो वानरा वारणोपमाः । उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२ ॥
- Verse 53जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ ॥
- Verse 54नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥
- Verse 55पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् । सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥
- Verse 56ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् । रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ ॥
- Verse 57गवयः पश्चिमात्तोयमाजहार महार्णवात् । रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७ ॥
- Verse 58उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः । आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ ५८ ॥
- Verse 59ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् । अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।…